SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः । ७७७ मनसो इत्युपतापकः, तथा, वैरस्य परस्परोपघातात्मनो विरोधस्य सुभूम-परशुरामयोरिव कारणम्,तथा, दुर्गतेनरकलक्षणायास्तयोरिव वर्तनी मार्ग: क्रोधः ; तथा, शमसुखस्य प्रशमानन्दस्यात्मनि प्रविशतोऽर्गलेवार्गला, तदुपरोधकारित्वात् । पुनः पुनः क्रोधग्रहणं तस्यातिदोध्यज्ञापनार्थम् ॥ ८॥ ख-परोपतापकारित्वेऽपि क्रोधस्य कशानुदृष्टान्तेन खोपतापकत्वं समर्थयते, उत्पद्यमानः प्रथमं दहत्येव खमाश्रयम् । क्रोधः कृशानुवत्पश्चादन्यं दहति वा नवा ॥ १० ॥ तथाविधकारणसंपाते उत्पद्यमानः क्रोधः कशानुवत् खं स्वकीयमाश्रयं, यत्र स उत्पद्यते तं, नियमेन दहति, पश्चात् कशानुवदेवान्यं दाह्यान्तरं दहति वा नवा, परस्य क्षमाशीलवादिना साद्रुमादिवत् दग्धुमशक्यत्वात् । प्रत्रान्तरलोकाः,- . अर्जितं पूर्वकोट्या यद् वरष्टभिरूनया। तपस्तत् तत्क्षणादेव दहति क्रोधपावकः ॥ १॥ शमरूपं पयः प्राज्यपुण्यसंभारसंचितम् । अमर्षविषसंपर्कादसेव्यं तत्क्षणाद् भवेद ॥ २ ॥ चारित्रचित्ररचनां विचित्रगुणधारिणीम् । समुत्सर्पन क्रोधधूमो श्यामलीकुरुतेतराम् ॥ ३ ॥ ८८
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy