SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ योगशास्त्र नादयो देवत्वादि फलदायकाः ; तथाहि-संज्वलनाः क्रोधादयो देवगतिम्, प्रत्याख्यानावरणा मनुष्यगतिम्, अप्रत्याख्यानावरणास्तिर्यग्गतिम्, अनन्तानुबन्धिनो नरकगतिं प्रयच्छन्तीति। एतेषां च संज्वलनादिभेदानां चतुणां कषायाणां स्पष्टदृष्टान्त कथनन खरूपमुच्यते-जलराजि-रेणुराजि-पृथिवीराजि-पर्वतराजिसदृशाः क्रोधाः संज्वलनादिभेदाः, तिनिशलता-काष्ठा-ऽस्थि-शैलस्तम्भसदृशाश्चत्वारो मानाः, अवलेखन-गोमूत्रिका मेषशृङ्ग-वंशिमूलसमाश्चतस्रो माया:, हरिद्रा-खञ्जन-कर्दम-कमिरागसदृशाश्चत्वारो योभा:, यदाह - 'जलरेणुपुढविपव्वयराईसरिसो चउब्विहो को हो। तिनिसलयाकट्ठट्ठियमलत्थंभोवमो माणो ॥ १ ॥ मायावलेहगोमुत्तिमिढसिंगघणवं सिमूलसमा। लोहो हलिहखंजणक हम किमिरागसारिच्छो ॥२॥इति॥८॥ अथ कषायाणां जेतव्यत्वमुपदर्शयितुं दोषानाहतत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । टुर्गतर्वर्तनी क्रोधः क्रोधः शममुखार्गला ॥८॥ तत्रेति तेषु कषायेषु क्रोधः प्रथमकषाय उपतापयति शरीर (१) जलरेणुष्टथ्वीपर्वतराजिमहशश्चतुर्विधः क्रोधः । तिनिशलताकाष्ठास्थिकशैलस्तम्भोपमो मानः ॥ १ ॥ मायावलेखगोमूत्रिकामेढकश्टङ्गधनवंशिमूल समा। .. लोभो हरिद्राखञ्जनकर्दमकमिरागसदृशः ॥ २ ॥ . .
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy