________________
चतुर्थः प्रकाशः ।
.: ७१५ इति न्यायेन प्रत्याख्यानावरणः प्रत्याख्यानं सर्वविरतिमाणोतीति कृत्वा । स मासचतुष्टयमभिव्याप्य भवति । अप्रत्याख्यानोऽप्रत्याख्यानावरणः, नोऽल्पार्थत्वादल्पमपि प्रत्याख्यानमाणोतीति कत्वा। स वर्ष संवत्सरमभिव्याप्य भवति । अनन्तं भवमनुबनातीत्यनन्तानुबन्धकः, मिथ्यात्वसहचरितत्वादस्यानन्तभवानुबन्धित्वम् । स जन्म जीवितकालमभिव्याप्य भवति । प्रसन्नचन्द्रादेः. क्षणमात्रस्थितीनामपि कषायाणामनन्तानुबन्धित्वम्, अन्यथा नरकयोग्यकर्मीपार्जनाभावात् ॥ ७ ॥
इति कालनियमक्ते संज्वलनादिलक्षणेऽपरितुष्य नक्षणान्तरेमाहवीतरागयतिश्राइसम्यग्दृष्टित्वघातकाः । ते देवत्वमनुष्यत्वतिर्यतनरकप्रदाः ॥८॥
त्वशब्दः प्रत्येकमपि संबध्यते, तेन वीतरागत्वस्य, यतित्वस्य, श्रावकत्वस्य, सम्यग्दृष्टित्वस्य च क्रमेण घातकाः, तथाहिसंज्वलनोदये यतित्वं भवति न पुनर्वीतरागत्वम् ; प्रत्याख्यानावरणोदये श्रावकत्वं भवति न पुनर्यतित्वम् ; अप्रत्याख्यानावरणोदये सम्यग्दृष्टित्वं भवति न पुन: श्रावकत्वम् ; अनन्तानुबन्ध्युदये सम्यग्दृष्टित्वं न भवति । एवं वीतरागत्वघातकत्वं संज्वलनस्य, यतित्वघातकत्वं प्रत्याख्यानावरण स्य, श्रावकत्वघातकत्वमप्रत्याख्यानावरणस्य, सम्यग्दृष्टित्वघातक त्वमनन्तानुबन्धिनः स्थितं लक्षणं भवति । उत्तरार्धेनामीषां फलदायकत्वमाह -ते संज्वल