________________
७७४
योगशास्त्रे रिन्द्रियैश्च पगभूतः । तमेव चात्मानं तहिजेतारं कषायेन्द्रियजेतारं मोक्षमाहुः। न हि स्वरूपलाभादन्यो मोक्ष: । याऽप्यानन्दरूपता सापि स्वरूपलाभरूपैव । तस्मादात्मज्ञानमुपासनीयम्, दर्शन-चारित्रादेरत एव सिद्धेरिति ॥ ५ ॥
'कषायेन्द्रियनिर्जितः' इत्युक्तम्, तत्र कषायान् विवृणोति-- स्युः कषायाः क्रोधमानमायालोभाः शरीरिणाम् । । चतुर्विधास्ते प्रत्येक भेदैः संज्वलनादिभिः ॥ ६ ॥
क्रोधमानमायालोभाः कषायशब्दवाया भवन्ति कथन्ते हिंस्यन्ते प्राणिनोऽस्मिन्ननेनेति वा, कषः संसार: कर्म वा तस्याया लाभाः प्राप्तय इति कृत्वा, अथवा, कषं संसारमयन्त एभिरिति कत्वा । ते च शरीरिणां संसारिणां न तु मुक्तानाम् । ते च क्रोधादयः प्रत्येकं चतुर्विधाश्चतुष्प्रकाराः संज्वलनादिभिर्भेदैः । तत्र क्रोधः संज्वलन:, प्रत्याख्यानावरण:, अप्रत्याख्यानोवरण:, अनन्तानुबन्धी च । एवं मान:, माया, लोभश्चेति ॥ ६ ॥
संज्वलनादीनां लक्षणमाहपक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ॥ ७॥
पक्ष मासार्धम भिव्याप्य संज्वलन: क्रोधो मानो माया लोभश्च भवति । संज्वलन इति तृणाग्निवदीषज्ज्वलनात्मकः, परोषहादिसंपात सपदि ज्वलनात्मको वा। प्रत्याख्यानो भौमो भीमसेन