________________
७७३
चतुर्थः प्रकाशः। नात्मनः कर्मभूतस्य पृथक् किञ्चित्, अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने। एवं च चिद्रूपोऽयं ज्ञानाद्याख्याभिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते, विषयान्तरज्ञानमेव यज्ञानरूपं दुःखं छिन्द्यात् । नैवम्, मर्वविषयेभ्य आत्मन एव प्रधानत्वात्, तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात्, कर्मक्षये च सिद्ध स्वरूपत्वात् ॥ ३ ॥
एतदेवाह...अयमात्मैव चिट्रपः शरीरी कर्मयोगतः । 'ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यानिरञ्जनः ॥ ४ ॥ _ 'अयमिति सकलप्रमाणप्रतिष्ठितचिद्रूपश्चेतनस्वभावः, उपयोगलक्षणत्वाज्जीवस्य ; तथा, स एव शरीरौ भवति, कर्मयोगात्, न वन्ये विषयाः ; तेन न विषयान्तरज्ञानं स ग्यते। आत्मैव च शक्लध्यानाग्निदग्धकर्माऽशरीरः सन् मुक्त स्वरूपो भवति निरजनो निर्मलः। अतोऽपि कारणादात्मज्ञानं मग्यते ॥ ४ ॥
तथाअयमात्मैव संसारः कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ ५ ॥
'अयमात्मैव' इति पूर्ववत् । संसारो नारक-तिर्य ग्-नरा-ऽमररूपतया। किंविशिष्टः सन् ? कषायेन्द्रियनिर्जितः कषाय