________________
७२
योगशास्त्रे
त्यागात् । तदेवात्मज्ञानमेव तस्यात्मनश्चारित्रम्, अनाश्रवरूपत्वात् ; तज्ज्ञानं तदेव ज्ञानम्, बोधरूपत्वात् ; तच्च दर्शनं तदेव दर्शनम्, श्रद्धानरूपत्वात् ॥ २ ॥
आत्मज्ञानमेव स्तौति
आत्माज्ञानभवं दुःखमात्मज्ञानेन हन्यते । तपसाप्यात्मविज्ञानहीनैश्छेत्तुं न शक्यते ॥ ३ ॥
इह सर्वं दुःखमनात्मविदां भवति, तदात्माज्ञानभवं प्रतिपक्षभूतेनात्मज्ञानेन शाम्यति क्षयमुपयाति तम इव प्रकाशेन । मनु कर्मक्षयहेतुः प्रधानं तप उक्तम्, यदाहु:, - 'पुव्विं दुश्चिनां दुप्पडिकंताणं कडाणं कम्माणं वेअइत्ता मोक्खो न त्थ अवेयइत्ता तवसा वा झोसइत्ता इत्याह – तपसापि आस्तामन्येनानुष्ठानेन तदात्माज्ञानभवं दुःखमात्मविज्ञान होनैर्न च्छेत्तुं शक्यते, ज्ञानमन्तरेण तपसोऽल्पफलत्वात्, यदाह ;
`जं अन्नाणी कम्मं खवेइ बहुश्रहिं वासकोडीहिं । तं णाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेण ॥ १ ॥ तत् स्थितमेतत् -- बाह्य विषयव्यामोहमपहाय रत्नत्त्रय सर्वस्वभूते आत्मज्ञाने प्रयतितव्यम्, यदाहुर्बाह्या अपि – आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितत्र्य इति । आत्मज्ञानं च
-
(१) पूर्व दुश्चरितानां दुष्प्ररिक्रान्तानां कृतानां कर्मणां वेदयित्वा मोहो नास्त्यवेदयित्वा तपसा वा चपयित्वा ।
(२) यदज्ञानी कर्म च पयति बहुकाभिर्वर्ष कोटिभिः ।
तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्रासमात्रेण ॥ १ ॥