SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ अथ चतुर्थः प्रकाशः । धर्मधर्मिणोर्भेदनयमधिकृत्यात्मनो रत्नत्रयं मुक्तिकारणत्वेनोलम् । इदानीमभेदनयाश्रयेणात्मनो रत्नत्रयेणेकत्वमाह आत्मैव दर्शनज्ञानचारित्राण्यथवा यतः । यत्तदात्मक एवैष शरीरमधितिष्ठति ॥ १ ॥ अथवेति भेदनयापेक्षया प्रकारान्तरस्याभेदनयस्य प्रकाशनार्थम् । प्रात्मैव न ततो भिन्नानि दर्शनज्ञानचारित्राणि । यतेरिति संबन्धिपदम् । अत्रोपपत्तिमाह-यद यस्मात् तदात्मक एव दर्शन-ज्ञान-चारित्रात्मक एव तदभेदमापन एवैष आत्मा शरीरमधितिष्ठति। आत्मभिन्नानां हि दर्शनादीनां नात्मनि मुक्तिहेतुत्वं स्यात्, देवदत्तसंबन्धिमामिव यज्ञदत्ते ॥ १ ॥ प्रभेदमेव समर्थयितुमाहआत्मानमात्मना वेत्ति मोहत्यागाद्य आत्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥ २ ॥ प्रात्मानं कर्मतापत्रमात्मन्याधारभूते प्रात्मना स्वयमेष यो वेत्ति जानौते । एतच्च ज्ञानं न मूढानां भवतीत्याह-मोह.
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy