________________
७७०
योगशास्त्र
ऽन्यतोऽपि कारणाद् निर्वाण प्राप्तिं शङ्कमानं प्रत्याह-सर्वोऽपि, प्रास्तां कश्चिदेकः, यद् रत्नत्रयमनासाद्य काकतालीयेनापि न्यायेन नाप्नोति निर्वृतिं मोक्षम् । न ह्यज्ञाततत्त्वोऽश्रद्दधानो नवं कर्म निबध्नन् पूर्वोपात्तानि कर्माणि शुक्लध्यानबलेनाक्षपयन् संसारबन्धनाद मुक्तिमाप्नोतीति सर्व समञ्जसम् ॥ १५६ ॥
॥ इति परमाईतश्रीकुमारपालभूपालशुषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नानि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपनं हतीयप्रकाशविवरणम् ॥३॥ .