________________
टतीय: प्रकाशः।
माल्य मधुकरोऽहमहमिकासेवासमायातत्रिदशकोटीचाटुकारजयजयध्वनिप्रतिध्वनितनभोगणो मनोमात्र परिश्रमसंमिलितसकलवैषयिक सुखलालितो नानासिद्धायतनयात्रासमुत्पन्नहर्षप्रकर्षः सन् प्रमोदभाग् भवति । अथ हेतुमाह-अनुत्तरा अनन्यसाधारणाः प्राज्या बहवो ये पुण्यसंभारास्तान् भजते तद्भाक् ॥ १५४ ॥ ततः कल्पेभ्यश्चुत्वा मनुष्यायुर्निबन्धेन च्यवनमनुभूय मनुष्येषु विशिष्टदेशजातिकुलबलेखयरूपवत्सूत्पद्यौदारिकशरीरत्वेन जन्म लब्ध्वा, भुत्वाऽनुभूय भोगान् शब्द-रूप-रस-गन्ध-स्पर्शलक्षणानकृतपुण्यैरतिशयेन. दुर्लभान्, यत् 'किञ्चिद् निमित्तमवाप्य सांसारिकेभ्यः सुखेभ्यो विरक्तो वैराग्यस्यैव परमप्रकर्षयोगेन सर्वविरतिं प्रतिपद्य तत्रैव जन्मनि क्षपक श्रेण्याक्रमणक्रमेण केवलज्ञानमुत्पाद्य नि:शेषकर्मनिर्मूलनेन शुद्धात्मा मुक्तिमाप्नोति। अथ न तत्रैव जन्मनि मुक्तिस्तदा कियत्सु जन्मान्तरेषु मुक्तिः स्यादित्याह – ‘अन्तर्भवाटकम्' इति भवाष्टकाभ्यन्तर इत्यर्थः ॥ १५५ ॥
प्रकाशत्रयोक्तमर्थमुपसंहरतिइति संक्षेपतः सम्यग्रत्नवयमुदीरितम् । सर्वोऽपि यदनासाद्य नासादयति निर्वृतिम् ॥१५६॥
इति प्रकाशत्रयेण रत्नत्रयं ज्ञानदर्शनचारित्रात्मकं योगत्वेन प्रत्याख्यातमुदीरितं कथितम् । कथम् ? सम्यग् जिनागमाविरोधन । विस्तरस्यासर्वविदा वक्तुमशक्यत्वादाह-संक्षेपत: । रत्नत्रयं विना
(१)
ड थ किञ्चन ।