________________
टतीयः प्रकाशः।
०५५
करणीया ये योगा: संयमव्यापारास्तेषां भङ्गे कर्तुमशतावित्येक कारणम् : अथ द्वितीयं-मृत्योरागमे मृत्यसमये संप्राप्ते, संलिख्यते तनक्रियते शरीरं कषायाशनयेति संलेखना, तत्र शरीरसंलेखना क्रमेण क्रमेण भोजनत्यागः, कषायसंलेखना तु क्रोधादिकषायपरिहारः । तत्र प्रथमाया: कारण मिदम्,
'देहम्मि असलिहिए सहसा धाऊहिं ग्विज्जमाणहिं ।
जायइ अट्टज्माणं सरोरिणो चरम कालम्मि ॥ १ ॥ द्वितीयाया: पुनरिदम् ;___३न ते एयं पसंसामि किसं साहु सरीरयं ।
कोस ते अंगुली भग्गा भावं संलिह मा तुर ! ॥ १ ॥ " इत्यादिना प्रबन्धेनोक्तम् । संयमं च यथौचित्येन प्रतिपद्यते । सत्रेयं . सामाचारी ;-श्रावकः किल सकलस्य श्रावकधर्मस्वोद्यापनार्थमिवान्ते संयमं प्रतिपद्यते तस्य साधुधर्मशेषभूतैव संलेखना, यदाह ;-संलेहणा उ अंते न निओा जेण पब्बाइ कोई। ततो यः संयम प्रतिपद्यते स संयमानन्तरं काले । संलेखनां कृत्वा मरणं प्रतिपद्यते ; यस्तु न संयम प्रतिपद्यते तं प्रति सकलो ग्रन्थ: 'अामन्दश्रावको यथा' इतिपर्यन्तः संबध्यते ॥१४॥
(१) देहेऽसंलिखिते सहसा धातुभिः खिद्यमानैः ।
जायत वार्तध्यानं शरीरिणश्चरमकाले ॥ १ ॥ (२) ग ड थ -नः । (३) न ते एतत् प्रशंसामि कशं साधो ! शरीरकम् ।
कस्मात् तेऽङ्गलिभग्ना भावं संलिख मा त्वरव ॥ १ ॥ (४) संलेखना त्वन्ते न नियोगाद् येन प्रव्रजति कोऽपि ।