________________
७५४
योगशास्त्रे
अवरेणावि आरंभं नवमी नो करावए । दसमौए पुणोद्दिडं फासुअं पि न भंजए ॥ ६ ॥ एक्कारसोइ निस्मंगो धरे लिंगं पडिग्गहं । कयलोओ सुसाहु.व्व पुवुत्तगुणसायरो ॥७॥ इति ॥१४८॥
इदानीं पञ्चभिः श्लोकैर्विधिशेषमाहसोऽथावश्यकयोगानां भङ्गे मृत्योरथागमे । कृत्वा संलेखनामादौ प्रतिपद्य च संयमम् ॥१४६॥ जन्मदीक्षाज्ञानमोक्षस्थानेषु श्रीमदर्हताम् । तदभावे गृहेऽरण्ये स्थण्डिले जन्तुवर्जिते ॥१५०॥ त्यक्ता चतुर्विधाहारं नमस्कारपरायणः । आराधनां विधायोच्चैश्चतुःशरणमाश्रितः ॥१५१॥ इहलोक परलोके जीविते मरणे तथा। त्यताशंसां निदानं च समाधिसुधयोक्षितः ॥१५२॥ परौषहोपसर्गेभ्यो निर्भीको जिनभक्तिभाक् । प्रतिपद्येत मरणमानन्दः श्रावको यथा ॥१५३॥
व्याख्या—स श्रावकः, अथानन्तरम्, आवश्यका अवश्य
(१) अपरेणाप्यारम्भं नवम्यां नो कारयेत् ।
दशम्यां पुनरुद्दिष्टं प्रासुकमपि न मुञ्जीत ॥ ६ ॥ एकादश्यां निम्मङ्गो धरोलिङ्गं प्रतिग्रहम् । , कृतलोचः सुमाधुरिव पूर्वोक्त गुणसादरः ॥ ७ ॥