________________
तृतीयः प्रकाशः ।
७४८
तथा
त्यजन् दुःशीलसंसर्गं गुरुपादरजः स्पृशन् । कदाहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ॥ १४३ ॥
दुःशीला लौकिका लोकोत्तराश्च । तत्र लौकिका दुःशीला विट-भट-भण्ड गणिकादयः, लोकोत्तरास्तु पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दास्तैः संसर्ग संवासादिरूपं, त्यजन् परिहरन् । न च तन्मात्रेण भवतीत्याह – गुरुपादरजः स्पृशन् । अनेन सत्संसर्गमाह । न चैतावताप्यलमित्याह – योगमभ्यस्यन् योगो रत्नत्त्रयं ध्यानं वा तमभ्यस्यन् पुनः पुनः परिशीलयन् कदाहं प्रभवेयं प्रभविष्यामि । कस्यै ? भवच्छिदे संसारोच्छेदाय ॥ १४३॥
तथा
महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकषणं 'वृषाः कुर्युः कदा मयि ॥ १४४॥
वा,
महानिशायां निशीथे, कायोत्सर्गे प्रकृते प्रारब्धे पुराद् बहिर्नगरादु बाह्यप्रदेशे स्तम्भ इव स्तम्भवद् मयि स्कन्धकषर्णं स्कन्धकण्डूयनं कदा वृषा उत्सृष्टपशवः कुर्युः करिष्यन्ति । इदं च प्रतिमाप्रतिपन्नश्रावकविषयम्, तस्यैव पुराद् बहिष्कृतकायोत्सर्ग स्य शिलास्तम्भम्भ्रान्त्या वृषभैः स्कन्धकषणसंभव: ; प्रेप्सितयत्यवस्थापेक्षं यतीनां जिनकल्पिकादीनां सर्वदा कायोत्सर्गसंभवात् ॥१४४॥
(9) उ कदा कुर्युर्वृषा म ।