________________
७५०
.
योगशास्त्रे
तथावने पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदाऽऽघ्रास्यन्ति वत्री मां जरन्तो मृगयूथपाः ॥१४५॥
बनेऽरण्ये पद्मासनं वक्ष्यमाणं तेनासौनमुपविष्टम्, अहिंसत्वेन क्रोडे उत्सङ्ग स्थिता मृगार्भका मृगडिम्भा यस्य तं क्रोडस्थितमृगार्भकम्, एवंविधं मामपरिकर्मशरीरं कदा वक्त्रे आघ्रास्यन्ति, के, मृगयूथपा मृगयूथाधिपतयः, किंविशिष्टाः, जरन्तो वृद्धाः । जरन्तो हि यथा कथञ्चित् न विश्वसन्ति, परमसमाधिनिश्चलतासंदर्शनात् तेऽपि विश्वस्ता: सन्तो जातिखभावाद वो आजिघ्रन्ति ॥ १४५ ॥
तथाशत्रौ मित्र ढणे स्वैणे स्वर्णेऽश्मनि मणौ मृदि। मोक्षे भवे भविष्यामि निर्विशेषमति: कदा ॥१४६॥
शत्रौ रिपो, मित्रे सुहृदि, टणे शष्यादौ, स्त्रैणे स्त्रीसमूह, स्वर्णे काञ्चने, अश्मन्युपले, मणौ रत्ने, मृदि मृत्तिकायाम, मोक्षे कर्मवियोगलक्षणे, भवे कर्मसंबन्धलक्षणे, निर्विशेषमतिस्तुल्यमति: कदा भविष्यामि। शत्रुमित्रादिषु निर्विशेषमतित्वमप्यन्यस्यापि भवेत्, असौ तु परमवैराग्योपगतो मोक्ष-भवयोरपि निर्विशेषत्वमर्थयते, यदाह ;--
मोक्षे भवे च सर्वत्र नि:स्पृहो मुनिसत्तमः । इति ।