________________
टतीयः प्रकाशः।
७४७
इदमपि निद्राच्छेदे चिन्तयेत्
जिनो देवः कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः ? ॥१४०॥
श्रावका उक्तनिर्वचनास्तेषां भाव: श्रावकत्वं तस्मै श्रावकत्वाय को न नाघेत ? -सर्व: श्लाघेतैव, मुक्ता मोहमूढान् । अत एवाह - अविमूढधीः ; मूढबुद्धीनां यतत्त्वदर्शिनां तैमिरिकाणामिव चन्द्रहितय-शङ्खपीतिमदर्शिनां मा भूत् श्रावकत्वाय श्लाघा, अमूढबुद्धयस्तु तत्त्वदर्शित्वात् माघन्त एव । तस्मै इति, तत्संबन्धिनं यच्छन्दमाह-यत्र श्रावकत्वे जिनो रागादिदोषजेता देव: पूज्यो न तु रागादिमान्, कपा दुःखितदुःखप्रहाणेच्छा, धर्मोऽनुष्ठेयरूपो म तु हिंसात्मको यागादिः, साधवः पञ्चमहाव्रतरताः, गुरवो धर्मोपदेष्टारो न तु परिग्रहारम्भसक्ताः ॥ १४ ॥
तथा, निद्राच्छेदे तांस्तान् मनोरथान् सप्तभिः श्लोकैराहजिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥१४१॥
जिनधर्मेण ज्ञान-दर्शन-चारित्ररूपेण विनिर्मुक्तो रहितश्वक्रवर्त्यपि सार्वभौमोऽपि मा भूवं मा अनिषि, तस्य नरकमूलत्वात् ; किन्तु स्यां भवेयं चेटोऽपि दासोऽपि दरिद्रोऽपि दुःस्थितोऽपि, कथंभूतः ? जिनधर्मेणोक्त स्वरूपणाधिवासितः ॥ १४१ ॥