SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ०४६ योगशास्त्रे प्रययावभिधायैवं स देवो देवसद्मनि । कामदेवोऽपि शुद्धात्मा प्रतिमां तामपारयत् ॥ ५८ ॥ उपसर्गसहिष्णुं तमश्नाघिष्ट स्वयं प्रभुः । सभायां भगवान् वीरो गुरवो गुणवत्सलाः ॥ ५८ ॥ कामदेवो हितोयस्मिन्नह्नि पारितपोषधः । त्रिजगत्स्वामिनः पादवन्दनार्थमथागमत् ॥ ६ ॥ जगद्गुरुरभाषिष्ट गौतमप्रभृतीनिति । महिधर्मेऽप्यसावेवमुपसर्गान् विसोढवान् ॥ ६१ ॥ सर्वसङ्गपरित्यागाद यतिधर्मपरायणैः । तविशेषेण सोढव्या उपसर्गा भवादृशैः ॥ ६२ ॥ कर्मनिर्मूलनोपायान् श्रावकप्रतिमास्ततः । एकादशापि शिवाय कामदेवः क्रमेण ताः ॥ ६३ ॥ सोऽथ संलेखनां कृत्वा प्रपेदेऽनशनव्रतम् । परं समाधिमापत्रः कालधर्ममुपाययौ ॥ ६४ ॥ सोऽरुणाभ विमानेऽभूटु चतुष्पल्य स्थितिः सुरः । युवा ततो विदेहेषुत्पद्य सिद्धिं ब्रजिष्यति ॥ ६५ ॥ यथोपसर्गेऽपि निसर्गधैर्यात् स कामदेवो व्रततत्परः सन्। नाघ्योऽभवत् तीर्थक्वतां तथाऽन्येऽप्येवंविधा धन्यतमाः पुमांसः ॥ ६६॥१३८ ॥ ॥ इति कामदेवकथानकं संपूर्णम् ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy