SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाश: । ७४५ ततोऽप्यभीतं तं प्रेक्ष्य शुण्डादण्डेन सोऽग्रहीत् । व्योमन्युच्छालयामास प्रतीयेष च पूलवत् ॥ ४७॥ दलयामास दन्ताभ्यां पादन्यासममर्द च। धर्मकर्मविरुद्धानां किमकत्यं दुरात्मनाम् ? ॥ ४८ ॥ अधिसेहे च तत् सर्व कामदेवो महामनाः । । मनागपि च न स्थैर्य जहौ गिरिरिव स्थिरः ॥ ४८ ॥ तस्मिनचलिते ध्यानादौदृशेनापि कर्मणा । सदर्य: सर्परूपं स विदधे विबुधाधमः ॥ ५० ॥ देव: पूर्ववदेवोचे स तं भापयितुं ततः।। कामदेवस्तु नाभैषीद् ध्यानसंवर्मितः सुधीः ॥ ५१ ॥ भूयो भूयस्तथोक्त्वा तं निर्भीक प्रेक्ष्य दुःसुरः । पातोद्यमिव वज्रेण स्वभोगेनाभ्यवेष्टयत् ॥ ५२ ॥ निःशूकमेव दशनैर्दैदशूको ददंश तम् । स तु ध्यानसुधामग्नो न तहाधामजीगणत् ॥ ५३ ॥ दिव्यरूपं ततः कृत्वा द्युतिद्योतितदिङ्मुखम् । सुर: पौषधशालायां विवेशैवमुवाच च ॥ ५४ ॥ धन्योऽसि कामदेव ! त्वं देवराजन संसदि। प्रशंसाऽकारि भवतोऽसहिष्णुस्तामिहागमम् ॥ ५५ ॥ प्रभवः प्राभवेणापि वर्णयन्ति ह्यवस्त्वपि । अतः परीक्षितोऽसि त्वं नानारूपभृता मया ॥ ५६ ॥ त्वां यथाऽवर्णयच्छकस्तथैवासि न संशयः । क्षम्यतामपराधो मे परीक्षणभवस्त्वया ॥ ५७ ॥ ८४
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy