________________
७४४
योगशास्त्रे तत्राप्यक्षुभ्यतः सोऽस्य क्षोभायभं वपुर्यधात् । खशक्त्यन्तमनालोक्य विरमन्ति खला न हि ॥ ३७ ॥ सोऽधत्त विग्रहं तुङ्ग सजलाम्भीदमोदरम् । सर्वतोऽप्येत्य मिथ्यात्वं राशीभूतमिवैकत: ॥ ३८ ॥ स दीर्घदारुणाकारं विषाणहन्दमुन्नतम् । धारयामास कोनाशभुजदण्डविडम्बकम् ॥ ३८ ॥ किञ्चिदाकुञ्चितां शुण्डां कालपाशामिवोहहन् । कामदेवं जगादेवं देव: कूटैकदैवतम् ॥ ४० ॥ मायाविन् ! मुच्यतां माया सुखं तिष्ठ मदाज्ञया । पाखण्डगुरुणा केन त्वमस्येवं विमोहित: ? ॥ ४१॥ न चेद् मुञ्चस्यमुं धर्म शुण्डादण्डेन तद् द्रुतम् । क्रक्ष्यामि त्वामित: स्थानाद् नेष्यामि च नभोऽङ्गणे ॥४२॥ व्योम्नः पतन्तं दन्ताभ्यां प्रेषयिष्यामि चान्तरा। अवनम्य ततस्ताभ्यां दारयिष्यामि दारुवत् ॥ ४३ ॥ पादैः कर्दममदं च त्वां मर्दिष्यामि निर्दयम् । एकपिण्डीकरिष्यामि तिलपिष्टिमिव क्षणात् ॥ ४४ ॥ उन्मत्तस्येव तस्यैवं घोरं व्याहरतोऽपि हि । नोत्तरं कामदेवोऽदाद् ध्यानसंलोनमानसः ॥ ४५ ॥ असंक्षुभितमीक्षित्वा कामदेवं दृढाशयम् । हिस्त्रिश्चतुरभाषिष्ट तथैव स दुराशयः ॥ ४६ ॥
(१) ड थ ध्रुवम् ।