SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । उष्ट्रौष्ठलम्बिनावोष्ठौ दशनाः फालसन्निभाः । जिह्वा सर्पोपमा श्मश्रु वाजिवालधिसोदरम् ॥ २६ ॥ तप्तमूषानिभे नेत्रे हनू सिंहहनूपमौ । हलास्यतुल्यं चिबुकं ग्रीवोष्ट्रग्रीवया समा ॥ २७ ॥ उरः पुरकपाटोरु भुजौ भुजगभीषणौ । पाणी शिलाभावङ्गुल्यः शिलापुत्रकसन्निभाः ॥ २८ ॥ पातालतुल्यमुदरं नाभिः कूपसहोदरा | ७४३ शिश्रं चाजगरप्रायं वृषणौ कुतपोपमौ ॥ २८ ॥ जङ्घे तालद्रुमाकारे पादौ शैलशिलोपमौ । कोलाहलरवोऽकाण्डाशनिध्वनिभयानकः ॥ ३० ॥ स मूनखुस्रजं त्रिभ्वत् कण्ठे च सरटस्रजम् । नकुलान् कर्णिकास्थाने ऽङ्गदस्थाने च पन्नगान् ॥ ३१ ॥ कुडान्तकसमुत्क्षिप्ततर्जनाङ्गुलिदारुणम् । उदस्यन्नपकोशासिं कामदेवं जगाद सः ॥ ३२ ॥ अप्रार्थित प्रार्थक ! रे ! किमारब्धमिदं त्वया | किं स्वर्गमपवर्गं वा वराक ! त्वमपीच्छसि ? ॥ ३३ ॥ मुञ्चारब्धमिदं नो चेदनेन निशितासिना । तरोरिव फलं स्कन्धात् पातयिष्यामि ते शिरः ॥ ३४ ॥ तर्जयत्यपि तत्रैवं समाधेर्न चचाल सः | शरभः शैरिभारावैः किं क्षुभ्यति कदाचन १ ॥ ३५ ॥ कामदेवः शुभध्यानाद् न चचाल यदा तदा । व्याजहार तथैवायं विस्त्रिस्त्रिदशपांसनः ॥ ३६ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy