________________
७४२
योगशास्त्रे
ऋते च चौमयुगलाद् वस्त्रं सर्वमवर्जयत् । चन्दनागुरुघुसृणान्यपास्यान्यद् विलेपनम् ॥ १५ ॥ जातीस्रजं च पद्मं च विना कुसुममत्यजत् । कर्णिकां नाममुद्रां च विहायाभरणान्यपि ॥ १६ ॥ तुरुष्कागुरुधूपेभ्य ऋते धूपविधिं जहौ । घृतपूरात् खण्डखाद्यादन्यद् भक्ष्यमवर्जयत् ॥ १७ ॥ काष्ठपेयां विना पेयामोदनं कलमं विना । मासमुहकलायेभ्य ऋते सूपं च सोऽमुचत् ॥ १८ ॥ तत्याज च घृतं सर्वमृते शारदगोष्घृतात् । शाकं स्वस्तिक मण्डूक्या: पल्लाङ्काञ्चापरं जहौ ॥ १८ ॥ अन्यत् स्नेह।म्लदाल्यम्नात् तोमनं वारि खाम्भसः । जहौ सुगन्धिताम्बूलाद मुखवासमथापरम् ॥ २० ॥ ततः प्रभुं स वन्दित्वा ययौ निजनिकेतनम् । तद्भार्याप्येत्य जग्राह स्वाम्यग्रे श्रावकव्रतम् ॥ २१ ॥ · कुटुम्बभारमारोप्य ज्येष्ठपुत्त्रे ततः स्वयम् । तस्थौ पौषधशालायामप्रमादी व्रतेषु सः ॥ २२ ॥ तस्थुषस्तस्य तत्राथ निशौथे क्षोभहेतवे । पिशाचरूपभृद् मिथ्यादृष्टिः कोऽप्याययौ सुरः ॥ २३ ॥ शिरोरुहाः शिरस्यस्य कर्कशाः कपिशत्विषः । चकासामासुरापक्का : केदार इव शालयः ॥ २४ ॥ भाण्डभित्तनिभं भालं बभ्रुपुच्छोपमे भ्रुवौ | कर्णौ सूर्पाकृतो युग्मचुल्लीतुल्या च नासिका ॥ २५ ॥