SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । लक्ष्मोरिव स्थिरीभूता रूपलावण्यशालिनी । अभूद भद्राक्कतिर्भद्रा नाम तस्य सधर्मिणो ॥ ४ ॥ निधौ षट् स्वर्णकोट्यः षड् ਬੁਝੀ षड् व्यवहारगाः । व्रजाः षट् चास्य दशगोसहस्रमितयोऽभवन् ॥ ५ ॥ तदा च विहरनुर्वी तत्रोर्वी मुखमण्डने । पुण्यभद्राभिधोद्याने श्रीवीरः समवासरत् ॥ ६ ॥ कामदेवोऽथ पादाभ्यां भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां स्वामिनो धर्मदेशनाम् ॥ ७ ॥ कामदेवस्ततो देवनरासुरगुरोः पुरः | प्रपेदे द्वादशविधं ग्गृहिधर्मं विशुद्धधीः ॥ ८ ॥ प्रत्याख्यात् स विना भद्रां स्त्रीर्व्रजान् षड्व्रजों विना । निधौ वृद्धौ व्यवहारे षट् षट् कोटोर्विना वसु ॥ १ ॥ हलपञ्चशतौं मुक्त्वाऽत्याक्षीत् चेत्राण्यनांसि तु । दिग्यात्रिकाणि वोदृणि पञ्च पञ्च शतान्यृते ॥ १० ॥ दिग्यात्त्रिकाणि चत्वारि चत्वारि प्रवहन्ति च । विहाय वहनान्येष प्रत्याख्यद् वहनान्यपि ॥ ११ ॥ विनैकां गन्धकाषायों स तत्याजाङ्गमार्जनम् । दन्तधावनमप्यार्द्रामपास्य मधुर्याष्टकाम् ॥ १२ ॥ ऋते च क्षौरामलकात् फलान्यन्यानि सोऽमुचत् । अभ्यङ्गं च विना तैले सहस्रशतपाकि मे ॥ १३ ॥ विना सुगन्धिगन्धाढ्यमुद्दतनकमत्यजत् । विनाष्टावौष्ट्रिकानम्भस्कुम्भान् मज्जनकर्म च ॥ १४ ॥ C ७४१
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy