SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ७४० योगशास्त्रे शाल्मलीसमाश्लेष-वैतरणीतरणादिभिः, नराणां च दारिद्राव्याधिपारवश्यवधबन्धादिभिः, सुराणां चेा-विषाद-विपक्षसंपदर्शनमरणदुःखानुचिन्तनादिभिर्दुःस्थैव भवस्थितिः, तां स्थेम्ना स्थैर्येण चिन्तयंस्तेषु सर्वजीवेष्वपवर्ग मोक्षम्, किंविशिष्टम् ? निसर्गसुखसगै निसर्गेण सुखसंसर्गो यत्र तम्, विमार्गयेदाशंसेत्-कथं नु नाम सर्वे संसारिण: सकलदुःखविमोक्षेण मोक्षण मंयुज्येरनिति ॥१३८॥ इदमपि निद्राच्छेदे चिन्तयेत्संसर्गेऽप्युपसर्गाणां दृढव्रतपरायणाः । धन्यास्ते कामदेवाद्याः श्नाध्यास्तीर्थकृतामपि ॥१३॥ संसर्गेऽपि संबन्धेऽपि, उपसर्गाणां सुरादिक्कतानाम्, दृढव्रतपरायणाः प्रतिपन्नव्रतपालनपराः, कामदेवाद्याः कामदेवप्रभृतयः, धन्या धर्मधनं लब्धारः, त इति भगवदुपास कत्वेन प्रसिद्धाः । धन्यत्वे विशेषहेतुमाह--नाध्या: प्रशस्यास्तीर्थ कृतां श्रीमन्महावीरस्य, पूजायां बहुवचनम् । कामदेवकथानकं च संप्रदायगम्यम् । स चायम्,-- अनुगङ्ग पतइंशश्रेणीभिरिव चारुभिः। चैत्यध्वजै राजमाना चम्पेत्यस्ति महापुरी ॥ १ ॥ भोगिभोगायतभुजस्तम्भः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना तस्यामासौद महीपतिः ॥ २ ॥ अभूद् गृहपतिस्तस्यां कामदेवाभिध: सुधीः । आश्रयोऽनेकलोकानां महातरु रिवाध्वनि ॥ ३ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy