________________
तृतीयः प्रकाशः।
०३८ तथा, इदमपि निद्राच्छेदे चिन्तयेत्यो यः स्याहाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन् ॥१३७॥
यो यो राग-द्देष-क्रोध-मान--माया-लोभ-मोह-मन्मथा ऽसूयामत्सरादिदोषो बाधकश्चित्तप्रशान्तिवाहिकायास्तस्य तस्य दोषस्य प्रतिक्रियां प्रतीकारं चिन्तयेत् ; तथाहि-रागस्य वैराग्यम्, हेषस्य मैत्री, क्रोधस्य क्षमा, मानस्य मार्दवम्, मायाया आर्जवम्, लोभस्य सन्तोषः, मोहस्य विवेकः, मन्मथस्य स्त्रीशरीराशौचभावना, असूयाया अनसूयत्वम्, मत्सरस्य परसंपदुत्कर्षेऽपि चित्तानाबाधा च प्रतिक्रिया मता। इदं चाशक्य मिति नाशकनीयम्, दृश्यन्ते हि मुनयस्तत्तदोषपरिहारेण गुणमयमात्मानं बिभ्रतः। अत एवांह-दोषमुक्तेषु यतिषु प्रमोदं व्रजन् । सुकरं हि दोषमुक्तामुनिदर्शनेन प्रमोदादात्मन्यपि दोषमोक्षणम् ॥ १३७ ॥
तथादुःस्थां भवस्थितिं स्थना सर्वजीवेषु चिन्तयन् । निसर्गसुखसगं तेष्वपवर्ग विमार्गयेत् ॥१३८॥
दुस्थां दुःखहेतुम्, भवस्थितिं संसारावस्थानम्, चिन्तयन् विमृशन्, सर्वजीवेषु तिर्यग्-नारक-नरा-ऽमरेषु ; तथाहि-तिरश्थां वध-बन्ध-ताडन-पारवश्य-क्षुत्-पिपासा-ऽतिभारारोपणा-ऽङ्गच्छेदादिभिः, नारकाणां च स्वाभाविक-परस्परोदीरित-परमाधार्मिककतक्षेत्रानुभावजवेदनामनुभवतां क्रकचदारण--कुम्भीपाक-कूट