________________
७३८
योगशास्त्रे
अयमर्थ:-यद्यसारेण रसामृग्मांसमेदोऽस्थिमज्जशक्रपूरितन बहुप्रयासलभ्येन स्त्रीरूपेण शस्त्रेण जिगीषत्ययम्, तदा तुच्छं पिच्छमेव सुलभमपूति च किं नादत्ते ? इदं हि विस्मृतमस्य मूढधियः, यल्लौकिकाः पठन्ति ;
अर्के चेद मधु विन्देत किमर्थं पर्वतं व्रजेत् ।।
इष्टस्यार्थस्य संसिद्धौ को विहान् यत्नमाचरेत् ? ॥१॥१३५॥ तथा, इदमपि निद्राच्छेदे चिन्तयेत् ;सङ्कल्पयोनिनानेन हहा ! विश्वं विडम्बितम् । तदुत्खनामि सङ्कल्पं मूलमस्येति चिन्तयेत् ॥१३६॥
सङ्कल्पः कल्पनामात्रं योनिः कारणं यस्य न तु वास्तवं किञ्चित् कारणमित्यर्थस्तेन, अनेन सकलजगत्संवेदनसिद्धेन, हहा इति खेदे, विश्वं जगद् ब्रह्म-हरि-हर-संक्रन्दनप्रभृति कङ्कोटपर्यवसानं तैस्तैः स्त्रीदर्शनालिङ्गनस्मरणादिभिः प्रकारैविडम्बितं विगोपितम् । श्रूयते हि पुराण-हर गौरीविवाहोत्सवे पुरोहितोभूतः पितामहो, गौरीप्रणयप्रार्थनासु हर:, गोपीचाटुकर्मणा श्रीपतिः, गौतमभार्यायां रममाणः सहस्रलोचन:, बृहस्पतेर्भार्यायां तारायां चन्द्रः, अखायामप्यादित्यो विडम्बना प्रापितः । तदनेनासारणासारहेतूद्भवेन च यद् विश्वं विडम्बाते तदसाम्प्रतम् । तत् तस्मादिदानीमस्यैव जगहिडम्बनकर्तुः सङ्कल्पलक्षणं मूलमुत्खनामि उन्मूलयामि। इति स्त्रीशरीरस्याशचित्वमसारत्वं सङ्कल्पयोन्युपकरण त्वं च विचिन्तयेदिति प्रकृतयोजना ॥ १३६ ॥