SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः। ७३७ परिपूरिता: स्त्रियः स्त्रीशरीराणि, चर्मप्रसेविका भस्त्राः, अतएव बहिरेव रम्याः । भस्त्रा हि मध्ये पूतिद्रव्यपूरिता अपि बाह्ये रम्या भवन्ति, स्त्रियोऽप्येवम् ; भस्त्राश्च स्यूता भवन्ति, अतएव स्नायुस्यताः स्नायुभिः नसादिभिः स्यूता इव स्यूताः ॥ १३३ ॥ तथाबहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृधगोमायुगोपनम् ॥१३४॥ बहिश्चान्तश्च, तयोर्विपर्यासो विनिमयः बहिर्भागोऽन्तर्भवेत्, अन्तर्भागो वा बहिः, स्त्रीशरीरस्य स्त्रीदेहस्य चेट् यदि भवेत्, तदा तस्यैव स्त्रीशरीरस्य कामुकः कामी गृध्रगोमायुगोपनं गृध्रगोमायुभ्यो रक्षणं कुर्यात् । गृध्रगोमायुग्रहणं दिवानिशं रक्षणीयताप्रतिपादनार्थम् ; एध्रा हि दिवा प्रभविष्णवः, गोमायवश्व रात्री। तत् स्त्रीशरीरस्य विपर्यासे नक्तंदिनं कामुको गृध्रगोमायुरक्षणव्याकुल एव स्यात्, दूर तत्परिभोगः ॥ १३४ ॥ तथास्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जिगौषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः ?॥१३५॥ स्त्रेयव शस्त्रं स्त्रीशस्त्रं तेन जगद्दिजयार्थमुपात्तेन, अपौत्यनादरे, चेद् यदि, कामो मन्मयः, एतज्जगत् त्रैलोक्यात्मकम्, जिगोषति जेतुमिच्छति, तदा स भूढधीः कामः तुच्छं काकादीनां यत् पिच्छे तन्मयं शस्त्रं किं नादत्ते कुतो हेतोर्न गृह्णाति ? ।
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy