SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे सूरिः संघं बभाषऽथ विचक्रेऽसौ यथाधुना। तथाऽन्ये विकरिष्यन्ते मन्दसत्त्वा अतः परम् ॥ २६ ॥ अवशिष्टानि पूर्वाणि सन्तु मत्याच एव तत् । अस्यास्तु दोषदण्डोऽयमन्यशिक्षाकृतेऽपि हि ॥ ३७ ॥ स संघेनाग्रहादुक्तो विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुच्छेदी भाव्यतस्तु सः ॥ ३८ ॥ अन्यस्य शेषपूर्वाणि प्रदेयानि त्वया नहि । इत्यभिग्राह्य भगवान् स्थूलभद्रमवाचयत् ॥ ३८ ॥ सर्वपूर्वधरोऽथासीत् स्थूलभद्रो महामुनिः । प्राप्य चाचार्यकं भद्रभविनः प्रत्यबोधयत् ॥ ४० ॥ स्त्रीभ्यो निवृत्तिमधिगम्य समाधिलीनः श्रीस्थूलभद्रमुनिराप दिवं क्रमेण । एवंविधप्रवरसाधुजनस्य सर्वसंसारसौख्यविरतिं विमृशेद मनीषी ॥२४१॥१३२॥ ॥ इति श्रीस्थूलभद्रकथानकम् ॥ योषिदङ्गसतत्त्वं कलापकेनाहयकृच्छकृन्मलश्लेष्ममज्जास्थिपरिपूरिताः । स्नायुस्यता बहीरम्याः स्त्रियश्चर्मप्रसेविकाः ॥१३३॥ यवत् कालखण्डम्. शकद् विष्ठा, मला दन्ताद्युपलेपाः, श्लेष्मा कफः, मज्जा षष्ठो धातुः, अस्थीनि पञ्चमो धातुः, एभिः (१) ड थ -भद्रम ।
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy