SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाशः । अत्रार्थे सकलः संघः कायोत्सर्गं ददावथ । एत्य शासनदेव्यूचे ब्रूत कार्यं करोमि किम् ? ॥ २५ ॥ संघोऽप्येवमभाषिष्ट जिनपार्श्वमिमां नय | सोचे निर्विघ्नगत्यर्थं कायोत्सर्गेण तिष्ठत ॥ २६ ॥ संघे तत्प्रतिपेदाने मां साऽनैषीज्जिनान्तिके । ततः सौमन्धरखामी वन्दितो भगवान् मया ॥ २७ ॥ भरतादागताऽऽर्येयं निर्दोषत्यवदज्जिनः । ७३५ कृपया मत्रिमित्तं च व्याचक्रे चूलिकादयम् ॥ २८ ॥ 'ततोऽहं छिन्नसन्देहा देव्यानीता यथाश्रयम् । श्रीसंघस्यार्पितवतौ चूलिकाद्दितयं च तत् ॥ २८ ॥ इत्याख्याय स्थूलभद्रानुज्ञाता निजमाश्रयम् । ता ययुः स्थूलभद्रोऽपि वाचनार्थमगाद् गुरुम् ॥ ३० ॥ न ददौ वाचनां तस्याऽयोग्योऽसीत्यादिशन् गुरुः । दोचादिनात् प्रभृत्येषोऽप्यपराधान् व्यचिन्तयत् ॥ ३१ ॥ चिन्तयित्वा च न ह्यागः स्मरामोति जगाद च । कृत्वा न मन्यसे शान्तं पापमित्यवदद् गुरुः ॥ ३२ ॥ स्थूलभद्रस्ततः स्मृत्वा पपात गुरुपादयोः । न करिष्यामि भूयोऽदः चम्यतामिति चाब्रवीत् ॥ ३३ ॥ न करिष्यसि भूयस्त्वमकार्षीर्यदिदं पुनः । न दास्ये वाचनां तेनेत्याचार्यास्तमनूचिरे ॥ ३४ ॥ स्थूलभद्रस्ततः सर्वसंघेनामानयद् गुरुम् । महतां कुपितानां हि महान्तोऽलं प्रसादने ॥ ३५ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy