________________
७३४
योगशास्त्रे ज्ञात्वोपयोगादाचार्योऽप्यादिदेशति गच्छत । वन्दध्वं तत्र वः सोऽस्ति ज्येष्ठार्यो न तु केसरी ॥ १४ ॥ ततोऽयुस्ताः पुनस्तत्र स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलभद्रं ज्येष्ठा चाख्यद् निजां कथाम् ॥ १५ ॥ श्रीयकः सममस्माभिर्दीक्षां जग्राह किन्त्वसौ। क्षुधावान् सर्वदा कर्तुं नैकभक्तमपि क्षम: ॥ १६ ॥ मयोक्तः पर्युषणायां प्रत्याख्याह्यद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो मया पूर्णेऽवधौ पुनः ॥ १७ ॥ प्रतीक्षस्व क्षणं प्रत्याख्याहि पूर्वार्धमप्ययि ।। अद्य यावत् त्वया चैत्यपरिपाटी विधीयते ॥ १८ ॥ तथैव प्रतिपेदेऽसौ समयेऽभिहितः पुनः । तिष्ठेदानीमस्त्वपार्धमिति चक्रे तथैव सः ॥ १८ ॥ प्रत्यासत्राऽधुना रात्रिः सुखं सुप्तस्य यास्यति । तत्प्रत्याख्या भक्तार्थमित्युक्तः सोऽकरोत् तथा ॥ २० ॥. ततो निशीथे संप्राप्ते स्मरन् देवगुरूनसौ।। क्षुत्पीडया प्रसरत्या विपद्य त्रिदिवं ययौ ॥ २१ ॥ ऋषिघातो मयाऽकारीत्युत्ताम्यन्ती ततस्त्वहम् । पुर: श्रमणसंघस्य प्रायश्चित्ताय ढोकिता ॥ २२ ॥ संघोऽप्यूचे व्यधायौदं भवत्या शुद्धभावया । प्रायश्चित्तं ततो नेह कर्तव्यं किञ्चिदस्ति ते ॥ २३ ॥ ततोऽहमित्यवोचं च साक्षादाख्याति चेज्जिनः । ततो हृदयसंवित्तिर्जायते मम, नान्यथा ॥ २४ ॥