SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ योगशास्त्र संघोऽथ पाटलीपुत्रे समवायं विनिर्ममे। यदङ्गाध्ययनोद्देशाद्यासौद यस्य तदाददे ॥ ८२ ॥ . ततश्चैकादशाङ्गानि श्रीसंघोऽमेलयत्तदा । दृष्टिवादनिमित्तं च तस्थौ किञ्चिद् विचिन्तयन् ॥ ३ ॥ संघोऽस्मरद भद्रबाहोर्दृष्टिवादभृतस्ततः । तदानयन हेतोश्च प्रजिघाय मुनिहयम् ॥ ८४ ॥ गत्वा नत्वा मुनी तो तमित्यूचाते कृताञ्जली। समादिशति व: संघस्तत्रागमनहेतवे ॥ ८५ ॥ ..सोऽप्युवाच महाप्राणध्यानमारब्धमस्ति यत् । । भविष्यति ततो हेतोर्न तत्रागमनं मम ॥ ६ ॥ तहचस्तौ मुनी गत्वा संघस्याशंसतामथ । संघोऽप्यपरमाहयादिदेशति मुनियम् ॥ ८७॥ गत्वा वाच्यः स आचार्यों यः श्रीसंघस्य शासनम् । न करोति भवेत् तस्य दण्डः क इति शंस नः ॥ ८ ॥ संघबाह्यः स कर्त्तव्य इति वक्ति यदा स तु । तर्हि तद्दण्डयोग्योऽसौत्याचार्यो वाच्य उच्चकैः ॥ ८ ॥ ताभ्यां गला तथैवोक्त आचार्योऽप्येवमूचिवान् । मैवं करोतु भगवान् संघः किन्तु करोत्वदः ॥ २० ॥ मयि प्रसादं कुर्वाण: श्रीसंघ: प्रहिणोत्विह। शिष्यान् मेधाविनस्तेभ्यः सप्त दास्यामि वाचनाः ॥ १ ॥ तत्रैकां वाचनां दास्ये भिक्षाचर्यात आगतः । अन्यां च कालवेलायां बहिर्भूम्यागतोऽपराम् ॥ २ ॥
SR No.002396
Book TitleYogshastra Part 05
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1918
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy