________________
हतीयः प्रकाशः। ___७३१ स्थूलभद्रं महासत्त्वं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुट्रैव मुखे वर्णयितुं परम् ॥ ८१ ॥ रथिकोऽप्यथ पप्रच्छ य एवं वर्ण्यते त्वया। को नाम स्थूलभद्रोऽयं महासत्त्वशिरोमणि: ? ॥ २ ॥ साप्यूचे शकटालस्य नन्दभूपालमन्त्रिण: । तनयः स्थूलभद्रोऽयं तवाग्रे वर्णयामि यम् ॥ ८३ ॥ तच्छ्रुत्वा सोऽपि संभ्रान्त इत्युवाच कृताञ्जलिः । एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ॥ ८४ ॥ संविम्नं साथ तं ज्ञात्वा विदधे धर्मदेशनाम्। प्रत्यबुध्यत सदुद्धिर्मोहनिद्रामपास्य सः ॥ ८५ ॥ प्रतिबुद्धं च तं बुड्डा साऽऽख्यद् निजमभिग्रहम् । . तत् श्रुत्वा विस्मयोत्फुल्ललोचनः सोऽब्रवीदिदम् ॥ ८६ ॥ बोधितोऽहं त्वया भद्रे ! स्थूलभद्रगुणोक्तिभिः । यास्यामि तस्य पन्थानं भवत्यैवाद्य दर्शितम् ॥ ८७ ॥ कल्याणमस्तु ते भद्रे ! पालय स्वमभिग्रहम् । उत्वं सद्गुरोः पाखें गत्वा दीक्षां स प्राददे ॥ ८८ ॥ भगवान् स्थूलभद्रोऽपि तीव्र व्रतमपालयत् । हादशाब्दप्रमाणश्च दुष्काल: समभूत्तदा ॥ ८८ ॥ तीरं नौरनिधेर्गत्वा साधुसंघोऽखिलोऽप्यथ । गमयामास दुष्कालं करालं कालरात्रिवत् ॥ ८ ॥ प्रगुण्यमानं तु तदा साधूनां विस्मृतं श्रुतम् । अनभ्यसनतो नश्यत्यधीतं धीमतामपि ॥ १ ॥