________________
टतीयः प्रकाशः ।
४८
॥ आयुर्वेदेऽप्युक्तम् ॥ एवं पुराणन रात्रिभोजनप्रतिषेधस्व संवादमभिधायायुर्वेदेन संवादमाह, आयुर्वेदेऽप्युक्तमित्यनेन ।
आयुर्वेदस्तुहृन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः ।
अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ॥६॥ इह शरीरे हे पद्मे ; हृत्पद्मं च यदधोमुखं, नाभिपद्मं च यदूर्द्धमुखं, योरपि च पद्मयोः रात्रौ सङ्कोच: ; कुतश्चण्डरोचिषः सूर्यस्यापायादस्तभयात् । अतो हृत्पद्मनाभिपद्मसङ्कोचा तोनक्तं रात्रौ न भोक्तव्यम् ; सूक्ष्मजीवादनादपीति द्वितीयं निशिभोजनप्रतिषेधकारणम् । सूक्ष्मा ये जीवास्तेषामदनं भक्षणं, तस्मादपि रात्रौ न भोक्तव्यम् ॥ ६० ॥ . परपक्षसंवादमभिधाय स्वपक्षं समर्थयतेसंसजज्जीवसङ्घातं भुञ्जाना निशि भोजनम् । राक्षसभ्यो विशिष्यन्ते मूढात्मानः कथं नु ते ? ॥६१॥ संबध्यमानजीवसमूह, भोजनं भोज्यं, भुञ्जाना निशि रात्री, राक्षसेभ्य: क्रव्यादेभ्यः कथं नु कथं नाम, विशिष्यन्ते भिद्यन्ते, राक्षसा एव ते इत्यर्थः । मूढात्मानो जडा: ; अपि च, लब्धे मानुषत्वे जिनधर्मपरिष्कृते विरतिरेव कर्तुमुचिता, विरतिहीनस्तु शृङ्गापुच्छहीनः पशुरेव ॥ ६१ ॥