________________
४८८
योगशास्त्रे
तदेवाहदिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तु तद्विजानीयान्न नक्तं निशि भोजनम् ॥ ५७॥ दिवसस्य दिनस्याष्टमे भागे पाश्चात्येऽई प्रहरे यद्भोजनं तन्त्रक्तमिति विजानीयात् । दिविधा हि शब्दस्य प्रवृत्तिर्मुख्या गोणी च ; तत्र क्वचिन्मुख्यया व्यवहारः, क्वचिन्मुख्यार्थबाधायां सत्यां गोण्या ; नक्तशब्दस्य रात्रिभोजनलक्षणमुख्यार्थबाधा, रात्रि भोजनस्य तत्र तत्र प्रतिषिद्धत्वादिति गौणार्थ एव नक्तशब्द इत्यसो दिवसशेषभोजने वर्त्तते । तत्र निमित्तमुक्तं मन्दीभूते दिवाकरे, मुख्यार्थप्रतिषेधाच्च न निशि भोजनं नक्तम् ॥ ५७ ॥
रात्रिभोजनप्रतिषेधमेव परकीयेण श्लोकहयेनाह -- देवैस्तु भुक्तं पूर्वाह्ने मध्याह्ने ऋषिभिस्तथा । अपराह्ने च पिटभिः साया) दैत्यदानवैः ॥५८॥ सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोदह ! ।
सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ५६ ॥ पूर्वमङ्गः पूर्वाह्नः तस्मिन् देवे तं, मध्यमङ्गो मध्याहस्तस्मिन्वृषिभिर्भुतं, अपरमह्नो अपराह्नस्तस्मिन् पिभिभुक्तम् ; सायमङ्गः सायाह्नो विकालस्तस्मिन् दैत्यैदितिजैर्दानवैर्दनुजैर्भुक्तम् ; सन्ध्या रजनीदिनयोः प्रवेशनिष्काशौ तस्यां यतैर्गुह्यकै रक्षोभी राक्षसैभुकम् । कुनोहहेति युधिष्ठिरस्यामन्त्र णम् । सर्वेषां देवादीनां वेला अवसरस्तां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ५८ ॥ ५० ॥