________________
तृतीय:
: प्रकाशः ।
४८७
शासनबहिर्भूता लौकिकास्तेऽपि यत् यस्मात् निशि भोज्यमभोज्यं
प्रचक्षते ॥ ५४ ॥
येन शास्त्रेण बाह्या निशाभोज्यमभोज्यं प्रचक्षते तच्छास्त्रोपदर्शनार्थं तद्यथेति तच्छास्त्रमेव पठति
तद् यथा
त्रयौतेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥ ५५ ॥
art ऋग्यजुः सामलक्षणा तस्यास्तेजः प्रकृतं प्रस्तुतमस्मिन् त्रयीतेजोमयो भानुरादित्य:, त्रयोतनुरिति ह्यादित्यस्य नाम | इति वेदविदो जानन्ति । तत इति शेषः । तत्करैर्भानुकरैः पूतं पवित्रीकृतमखिलं समस्तं शुभं कर्म समाचरेत् ; तदभावे शुभं कर्म न कुर्य्यात् ॥ ५५ ॥
एतदेवाह
नैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् ।
दानं वा विहितं रावौ भोजनं तु विशेषतः ॥ ५६॥ आहुतिरग्नौ समिदाद्याधानं, स्नानमङ्गप्रक्षालनं, श्राद्धं पिटकर्म, देवतार्चनं देवपूजा, दानं विश्राणनं ; न विहितमिति सर्वत्र नञो योग: ; भोजनं तु विशेषतो न विहितमिति । ननु नक्तभोजनं श्रेयमे श्रूयते, न च रात्रिभोजनं विना तद्भवति । उच्यते । नक्तशब्दार्थापरिज्ञानादेवमुच्यते ॥ ५६ ॥