SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ४८६ योगशास्त्र नाप्रेच्य सूक्ष्म जन्तूनि निश्यद्यात्माशुकान्यपि । अभ्युद्यत्केवलज्ञानैर्नादृतं यन्निशाऽशनम् ॥ ५३ ॥ प्राशुकान्यपि अचेतनान्यपि उपलक्षणत्वात्तदानीमपक्कान्यपि मोदकफलादीनि न निश्यद्यात् कुतः अप्रेक्ष्य सूक्ष्मजन्तूनि अप्रेक्ष्याः प्रेचितुमशक्याः, सूक्ष्माः कुन्थुपनकादयो जन्तवो यत्र तानि विशेषणद्वारेण हेतुवचनं, अप्रेक्ष्यसूक्ष्मजन्तुत्वादित्यर्थः ; यद् यस्मादुत्पन्न्रकेवलज्ञानैः केवलज्ञानबलेनाधिगतसूक्ष्मेतरजन्तुसंपातैर्निर्जन्तुकस्याहारस्याभावान्नादृतं निशाभोजनम् । यदुक्तं निशीथभाष्ये 'जइवि हु फासुगदव्वं कुंथूपणगावि तहवि दुप्पस्मा । पचक्खनागिणोवि हु राईभत्तं परिहरति ॥ १ ॥ जवि ह पिवीलगाई दोसंति पईवमाइउज्जोए । तहवि खलु अणाइन्नं मूलवयविराहणा जेण ॥ २ ॥ ५३ ॥ लौकिक संवाददर्शनेनापि रात्रिभोजनं प्रतिषेधति धर्मविनैव भुञ्जीत कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥५४॥ धर्मवित् श्रुतधर्मवेदी न कदाचिन्निशि भुञ्जीत, बाह्या जिन (१) यद्यपि खलु प्राशुकद्रव्यं कुन्युपनका अपि तथापि दुर्दर्शाः । प्रत्यक्षज्ञानिनोऽपि खलु रात्रिभक्तं परिहरन्ति ॥ १ ॥ यद्यपि खलु पिपोलिकादयो दृश्यन्ते प्रदीपाद्युद्योते । तथापि खलु मनाचीर्णं मूलव्रतविराधना येन ॥ २ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy