________________
४८०
योगशास्त्रे
एतदेवाह -
वासरे च रजन्यां च यः खादन्नेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः स्पष्टं स पशुदेव हि ॥ ६२ ॥
स्पष्टम् ॥ ६२ ॥
रात्रिभोजननिवृत्तेभ्योऽपि सविशेषपुण्यवतो दर्शयतिअह्नो मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्वात्यसौ पुण्यभाजनम् ॥ ६३ ॥ अहो मुखे आरम्भे, अवसाने पश्चिमे भागे, द्वे द्वे घटिके, मुहर्त्तं मुहर्त्तं रात्रेः, प्रत्यासन्नं त्यजन् परिहरन्, योऽश्नाति स पुण्यभाजनम्, निशाभोजनदोषज्ञ इति । निशाभोजने सम्पातिमजन्तुसम्पातलक्षणा ये दोषास्तान् जानन् रात्रिप्रत्यासन्नमपि मुह मुहूर्तं सदोषत्वेन जानाति ; अत एवागमे सर्वजघन्यं प्रत्याख्यानं मुहत्तेप्रमाणनमस्कारसहितमुच्यते | पाश्चात्यमुहर्त्तादप्यर्वाक् श्रावको भोजनं करोति, तदनन्तरं रात्रिभोजनं प्रत्याख्याति ॥ ६३ ॥ ननु यो दिवेव भुङ्क्ते तस्य रात्रिभोजनप्रत्याख्याने फलं नास्ति, फलविशेषो वा कश्चिदुच्यतामित्याह
अकृत्वा नियमं दोषाभोजनाद्दिनभोज्यपि ।
फलं भजेन्न निर्व्याजं न वृद्धिर्भाषितं विना ॥ ६४ ॥ नियमं निवृत्तिं, रात्रिभोजनादकत्वा दिने भोक्तुं शीलमस्यासौ दिनभोजी सोऽपि निशाभोजनविरतेः फलं निर्व्याजं निम्оद्म, ন