________________
टतीयः प्रकाशः।
४८१
भजेत् न लभेत । कुत इत्याह-न वृद्धिर्भाषितं विना, वृद्धिः कलान्तरं, भाषितं जल्पितं विना न स्यात् । लौकिकमेतद्, यथा भाषितमेव कलान्तरं भवेदिति ॥ ६४ ॥
पूर्वोक्तस्य विपर्ययमाहये वासरं परित्यज्य रजन्यामेव भुञ्जते ।
ते परित्यज्य माणिक्यं काचमाददते जडाः ॥६५॥ दिवस परित्यज्य तच्छोलतया रानावेव ये भुञ्जते ; दृष्टान्तः खष्टः ॥ ६५ • ननु नियमः सर्वत्र फलवान्, ततो यस्य 'रानावेव मया भोक्तव्यं न दिवसे' इति नियमस्तस्य का गतिरित्याह
वासरे सति ये श्रेयस्काम्यया निशि भुञ्जते ।
ते वपन्ल्यूषरक्षेत्र शालीन् सत्यपि पल्वले ॥ ६६ ॥ थेयोती वासरभोजने सत्यपि कुमास्त्रसंस्कारान्मोहाद्दा श्रेयस्काम्यया ये रानावेव भुञ्जते ते शालिवपनयोग्ये पल्वले सत्यपि ऊपरे क्षेत्रे शालीन् वपन्ति । यथा यूपरे क्षेत्रे शालिवपनं निरर्थक, तथा रात्रावेव मया भोक्तव्यमिति निष्फलो नियमः । अधर्मनिवृत्तिरूपो हि नियमः फलवानयं तु धर्मनिवृत्तिरूप त्यफलो विपरीतफलो वा ॥ ६६ ॥
रात्रिभोजनस्य फलमाहउलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ॥६॥