SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ४८२ योगशास्त्रे रात्रिभोजनादुलूकादिषु जन्म भवति। उलू कादय उपलक्षणं ; तेनान्येष्वप्यधमतियक्षु रात्रिभोजिनो जायन्ते ॥ ६७ ॥ वनमालोदाहरणन रात्रिभोजनदोषस्य महत्तां दर्शयतिश्रूयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः । निशाभोजनशपथं कारितो वनमालया ॥ ६८॥ श्रूयते रामायण दशरथनन्दनो लक्ष्मण: पिटनिदेशात् सह रामेण सीतया च दक्षिणापथे प्रस्थितोऽन्तरा कूर्वरनगरे महीधरराजतनयां वनमालामुपयेम ; ततश्च रामेण सह परतो देशान्तरं यियासन् खभायां वनमालां प्रतिमोचयति स्म ; सा तु तहिरहकातरा पुनरागमनमसम्भावयन्ती लक्ष्मणं शपथानकारयत् । यथा प्रिये ! रामं मनीषिते देश परिस्थाप्य यद्यहं भवती स्वदर्शनेन न प्रीणयामि, तदा प्राणातिपातादिपातकिनां गतिं यामीति ; सा तु तै: शपथैरतुष्यन्ती यदि रात्रिभोजनकारिणां शपथं करोषि, तदा त्वां प्रतिमुञ्चामि, नान्यथेति तमुवाच ; स तथेत्यभ्युपगत्य देशान्तरं प्रस्थितवान् । एवमन्यशपथाननादृत्य लक्ष्मणो वनमालया रात्रिभोजनशपथं कारितः। विशेषचरितं तु ग्रन्थगौरवभयान्नेह लिख्यते ॥ ६८ ॥ __ शास्त्रं निदर्शनं च विना सकलजनानुभवसिद्धं रात्रिभोजनविरत: फलमाह करोति विरतिं धन्यो यः सदा निशि भोजनात् । ' सोऽई पुरुषायुषस्य स्यादवश्यमुपोषितः ॥ ६६ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy