________________
४८४
योगशास्त्र
रात्रिभोजने दृष्टान् दोषान् श्लोकल येणाह
मेधां पिपीलिका हन्ति यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं कुष्ठरोगं च कोलिकः ॥ ५० ॥ कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्णिपतितस्तालु विध्यति वृश्चिकः ॥ ५१ ॥ विलग्नश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥ ५२ ॥
पिपीलिका कीटिका, अन्नादिमध्ये भुक्ता सती, मेधां बुद्धिविशेषं, हन्ति ; पिपीलिकति जातावेकवचनम् । तथा यू का जलोदरमुदररोगविशेषं कुर्यात्, तथैव मक्षिका वान्तिं वमनं करोति, तथैव कोलिको मर्कटकः, कुष्ठरोगं करोति, कण्टको बदर्यादिसंबन्धी, दारुखण्डं च काष्ठशकलं, तथैव गलव्यथां वितनोति, व्यञ्जनानि शाकादीनि तेषां मध्ये निपतितो वृश्चिक स्तालु विध्यति । ननु पिपीलिकादयः सूक्ष्मत्वान्न दृश्यन्ते, वृश्चिकस्तु स्थूलत्वाद् दृश्यत एव तत्कथमयं भोज्ये निविशेत । उच्यते । व्यञ्जनमिह वार्ताकुशाकरूपमभिप्रेतं तहन्तं च वृश्चिकाकारमेव भवतीति वृश्चिकस्य तन्मध्यपतितस्यालक्ष्यत्वाद्भोज्यता सम्भवतीति । विलग्नश्च गले वाल इत्यादि स्पष्टम् ; एवमादयो रात्रिभोजने दृष्टा दोषाः सर्वेषां मिथ्यादृशामपि ।