SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रे वल्लीविशेषः, शतावरी वल्लीविशेष एव विरूढानि अङ्कुरितानि द्दिदलधान्यानि, गुडूची वल्लीविशेषः, कोमलाऽलिका कोमला अबडास्थिका अम्लिका चिञ्चिणिका ; पल्लाङ्कः शाकभेदः, अमृतवल्लो वल्लोविशेष:, वल्लः शूकरसंज्ञितः शूकरवल्ल इत्यर्थः ; शूकरसंज्ञितग्रहणं धान्यवल्लनिषेधार्थम् । एते आर्यप्रसिद्धाः । म्लेच्छ प्रसिद्धास्तुं अन्येऽपि सूत्रोक्ता: ; सूत्रं जीवाभिगमः । अपरेऽपि कृपापरैः सुश्रावकैर्वर्जनीयाः । ते च मिथ्यादृष्टीनामविज्ञाताः ; मिथ्यादृशो हि वनस्पतीनपि जीवत्वेन न मन्यन्ते कुतः पुनरनन्तकायान् ॥ ४४ ॥ ४५ ॥ ४६ ॥ ४८२ अथ क्रमप्राप्तमज्ञातफलं वर्जयितुमाह स्वयं परेण वा ज्ञातं फलमद्याविशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्त्तनम् ॥४७॥ अज्ञातमिति संबन्धिविशेषानिर्देशात् स्वयमात्मना, परेण वा अन्येन, ज्ञातं फलमद्याद्भक्षयेद्दिशारदो धीमान् ; यत्तु स्वयं परेण वा न ज्ञातं तदज्ञातफलं वर्जयेत् ; अज्ञातफलभक्षणे दोषोऽयम्, निषिद्धे फले विषफले वा अज्ञानादस्य विशारदस्य मा भूप्रवृत्तिः । 'अज्ञानतो हि प्रतिषिडे फले प्रवर्त्तमानस्य व्रतभङ्गः, विषफले तु जीवितनाशः ॥ ४७ ॥ (१) कच अजानतो ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy