________________
टतीयः प्रकाशः ।
४८१
आस्तां सुलभधान्यफलसमृद्धे देश काले वा, यावद्देशदोषात् कालदोषाहा अप्राप्नुवन्न व्यन्धभक्ष्यं धान्यफलादिभक्ष्यं ; अपि शब्द उत्तरत्रापि सम्बध्यते ; बुभुक्षया क्षामोऽपि कशोऽपि ; अबुभुक्षितस्य स्वस्थस्य व्रतपालनं नातिदुष्करम् ; यस्तु अप्राप्तभोज्यः क्षुत्क्षामश्च व्रतं पालयति स पुण्यात्मेति प्रशस्यते ॥ ४३ ॥
क्रमप्राप्तमनन्तकायनियमं श्लोकत्रयेण दर्शयतिआर्द्रः कन्दः समग्रोऽपि सर्व: किशलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥४४ ॥ शतावरी विरूढानि गुडूची कोमलाम्लिका । पल्लाकोऽमृतवल्ली च वल्लः शूकरसंजितः ॥ ४५ ॥ अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः ।
मिथ्यादृशामविज्ञाता वर्जनीयाः प्रयत्नतः ॥४६॥ आर्दोऽशष्कः, शुष्कस्य तु निर्जीवत्वादनन्तकायत्वं न भवति। कन्दो भूमिमध्यगो वृक्षावयवः समग्रोऽपि, सर्वे कन्दा इत्यर्थः । ते च सूरणार्टकलशुनवचकन्दहरिद्राक—रपलाशकन्दग्यञ्जनलोढककसेरुकमुहरमुस्तामूलकालु कपिण्डालुकहस्तिकन्दमनुष्यकन्दप्रभृ-- तयः ; किशलयः पत्रादर्वाग् बीजस्यो'च्छूनावस्था सर्वा न तु काचिदेव, स्नुही वचतरुः ; लवणनाम्रो वृक्षस्य त्वक्, त्वर्गव नत्वन्ये अवयवाः ; कुमारी मांसलप्रणालाकारपत्रा, गिरिकर्णिका
(१) क च -स्थाना-।