SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ४८. योगशास्त्रे मन्यमानाः, देवानां शङ्करादीनां, स्नाने स्नाननिमित्तं, प्रयुञ्जते व्यापारयन्ति, अहो इत्युपहासे । यथा करभाणां विवाहे तु रामभास्तत्र गायनाः । परस्परं प्रशंसन्ति अहो रूपमही ध्वनिः ॥ १ ॥ ४१ ॥ क्रमप्राप्तान् पञ्चोदुम्बरदोषानाहउदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात्फलं कृमिकुलाकुलम् ॥४२॥ उदुम्बरवटप्लक्षकाकोदुम्बरिकापिप्पलानां पञ्चोदुम्बरसंज्ञितानां फलं नाश्नीयात् । अनशने कारणमाह-कृमिकुलाकुलं, एकस्मिन्नपि फले तावन्तः कमयः सम्भवन्ति ये परिसंख्यातुमपि न शक्यन्ते। यल्लौकिका अपि पेठःकोऽपि क्वापि कुतोऽपि कस्यचिदहो चेतस्य कस्माज्जनः केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । येनास्मिन्नपि पाटिते विघटिते विनासिते स्फोटिते निष्यिष्टे परिगालित विदलित निर्यात्यसौ वा नवा ॥१॥ इति ॥४२॥ पञ्चोदुम्बरफलविरतानां स्तुतिमाहअप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा पञ्चोदुम्बरजं फलम् ॥४३॥ यः पुण्यात्मा पवित्रात्मा पुरुषः, स पञ्चोदुम्बरजं फलं न भक्षयति,
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy