________________
४७८
रतीयः प्रकाशः । अप्यौषधकृते जग्धं मधु श्वभ्रनिबन्धनम् ।
भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥३६॥ आस्तां रसास्वादलाम्पट्येन यावदोषधकृतेऽपि औषधनिमित्तमपि मधु जग्धं यद्यपि रोगापहारक, तथापि वभ्रस्य नरकस्य निबन्धनम् ; हि यस्मात् प्रमादाज्जीवितार्थितया वा कालकूटस्य विषस्य कणोऽपि लवोऽपि भक्षितः सन् प्राणनाशाय भवति ॥३८॥
ननु खजूरद्राक्षादिरसवन्मधु मधुरमिति सर्वेन्द्रियाप्यायकत्वात् कथं परिहार्थ स्यादित्याह
मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते ।
आसाद्यन्ते यदावादाच्चिरं नरकवेदनाः ॥ ४० ॥ सत्यमस्ति मधुनो माधुर्य व्यवहारतः, परमार्थतस्त नरकवेदनाहेतुत्वादत्यन्त कटुकत्वमेव। अबोधैरिति परमार्थपरिशीलनाविकलैः, नरकवेदनाहेतोरपि मधुनो माधुर्यवर्णनमबीधानामित्यहहेत्यनेन विषादो द्योत्यते। यस्य मधुन आस्वादावरकवेदनाश्चिरमासाद्यन्ते प्राप्यन्ते ॥ ४० ॥ पवित्रत्वात् मधु देवनानोपयोगीति ये मन्यन्ते तानुपहसति
मक्षिकामुखनिष्ठातं जन्तुघातोद्भवं मधु ।
अहो पवित्रं मन्वाना देवनाने प्रयुञ्जते ॥ ४१ ॥ मक्षिकाणां मुखानि तैर्नियतं वान्तं जन्तुघाताप्राणिघातादुद्भवी यस्य तत्तादृशमपवित्रं मधु, पवित्रं शुचि, मन्वाना अभि