SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ४७८ योगशास्त्र सचेतनः, स्वादयति भक्षयति, मक्षिकाभिः कृतं माक्षिक मधु । एतच्च भ्रामरादीनामुपलक्षणम् ॥ ३६ ॥ इदानीं मधुभक्षकाणां पापीयस्तां दर्शयति-- भक्षयन्माक्षिकं क्षुट्रजन्तुलनक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः शौनिकेभ्योऽतिरिच्यते ॥३०॥ क्षुद्रजन्तुरनस्थि: स्यादथवा क्षुद्र एव यः । शतं वा प्रमृतिर्येषां केचिदा नकुलादपि ॥ १ ॥ तेषां क्षुद्रजन्तूनां लक्षाणि, लक्षग्रहणं बहुत्वोपलक्षणम् । तेषां क्षयो विनाशस्तस्मादुद्भवो यस्य तत्तथा, तद्भक्षयन् स्तोकपखादिजन्तुनिहन्तृभ्यः शौनिकेभ्यः खटिकेभ्योऽतिरिच्यतें अधिकी भवति ; भक्षकोऽपि घातक इत्यु कप्रायम् ॥ ३० ॥ लौकिकानामप्यच्छिष्टभोजनत्याजिनामुच्छिष्टत्वान्मधु परिहर्त्तव्यमेवेत्याह...- . एकैककुमुमक्रोडाटसमापीय मक्षिकाः । यहमन्ति मधूच्छिष्टं तदनन्ति न धार्मिकाः ॥३८॥ एकैकस्य कुसमस्य य: क्रोड उत्मङ्गस्तस्माद्रसं मकरन्दमापीय पीत्वा, मक्षिकाः यहमन्ति उहिरन्ति, तदुच्छिष्टं मधु ; धर्म चरन्ति धार्मिकास्ते नानन्ति । अनुच्छिष्टभोजनं हि धर्मो लौकिकानाम् ॥ ३८ ॥ ननु 'त्रिदोषशमनं मधु' नातःपरमौषधमस्तौति रोगोप शान्तये मधुभक्षण को दोष इत्याह
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy