SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः । ४७७ · क्रमप्राप्तं नवनीतभक्षणदोषमाहअन्तर्मुहूर्तात्परतः सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति तन्नाद्यं नवनीतं विवेकिभिः ॥३४॥ अन्तर्मध्यं मुहूर्तस्य अन्तर्मुहत्ते, तस्मात् परत ऊर्दू, अतिशयेन सूक्ष्माः सुसूक्ष्माः, जन्तुराशयो जन्तुसमूहाः यस्मिन्नवनीत, मूर्च्छन्ति उत्पद्यन्ते, तन्नवनीतं, नाद्यं न भक्षणीयं, विवेकिभिः ॥ ३४ ॥ एनमेवार्थ भावयतिएकस्यापि हि जीवस्य हिंसने किमघं भवेत् ? । जन्तुजातमयं तत् को नवनीतं निषवते ? ॥ ३५ ॥ एकस्यापि हि जन्तोर्वधे किं निर्देष्टुमशक्यमधं पापं भवेत् तत्तस्माज्जन्तुजातं प्रकृतमस्मिंस्तज्जन्तुजातमयं नवनीतं को निषेवते कः सविवेकोऽनाति ? ॥ ३५ ॥ क्रमप्राप्तान्यधुदोषानाह-- अनेकजन्तुसङ्घातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत् कः खादयति माक्षिकम् ?॥३६॥ अनेकस्य जन्तुसङ्घातस्य यन्निघातनं विनाशस्तस्मात् समुद्भवो यस्य तत्तथा। निघातनमिति हन्त्यर्थाश्चेति हन्तेश्चुरादिपाठात् णिजन्तस्य रूपम्। अयं परलोकविरोधी दोषः, जुगुप्सनीयं कुत्सनीयं, लालावल्लालामिव, अयमिहलोकविरोधी दोषः, कः
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy