________________
४७६
योगशास्त्रे अहो हिजातयो धर्म शौचमूलं वदन्ति च ! सप्तधातु कदेहोत्थं मांसमश्नन्ति चाधमाः ॥ ७ ॥ येषां तु तुल्ये मांसान्ने सणाभ्यवहारिणाम् । विषामृते समे तेषां मृत्युजीवितदायिनी ॥ ८ ॥ भक्षणीयं सतां मांस प्राण्यङ्गत्वेन हेतुना। अोदनादिवदित्येवं ये चानुमिमते जडाः ॥ ८ ॥ गोसम्भवत्वात्ते मूत्रं पयोवन्न पिबन्ति किम् ? । प्राण्यङ्गतानिमित्ता च नोदनादिषु भक्ष्यता ॥ १० ॥ शङ्खादि शुचि नास्थ्यादि प्राण्यङ्गत्वे समे यथा । ओदनादि तथा भक्ष्यमभक्ष्यं पिशितादिकम् ॥ ११ ॥ यस्तु प्राण्यङ्गमानत्वात् प्राह मांसौदने समे । स्त्रीत्वमानान्मारपत्नयोः स किं साम्यं न कल्पयेत् ? ॥१२॥ पञ्चेन्द्रियस्यैकस्यापि वधे तन्मांसभक्षणात् । यथा हि नरकप्राप्तिन तथा धान्यभोजनात् ॥ १३ ॥ न हि धान्यं भवेन्मांसं रसरक्तविकारजम् । अमांसभोजिनस्तस्मान्न पापा धान्यभोजिनः ॥ १४ ॥ धान्यपाक प्राणिवधः परमेकोऽवशिष्यते । रहिणां देशयमिनां स तु नात्यन्तबाधकः ॥ १५ ॥
मांसखादकगतिं विमृशन्तः सस्यभोजनरता इह सन्तः । प्राप्नुवन्ति सुरसम्पदमुच्चैजनशासनजुषो ग्रहिणोऽपि ॥ १६ ॥ ३३ ॥