________________
४७४
योगशास्त्रे
यद् मनु:
असंस्कृतान् पशून्मन्यैर्नाद्याहिप्रः कथञ्चन ।
मन्वैस्तु संस्कृतानद्याच्छाश्वतं विधिमास्थितः ॥ १ ॥ शाखतो नित्यो वैदिक इत्यर्थः ॥ ३१ ॥
अत्राह
मन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् ।
भवेज्जीवितनाशाय हालाहललवोऽपि हि ॥ ३२ ॥ मन्त्रसंस्कृतमपि मन्त्रपूतमपि, पलं नाद्यात्, न हि मन्त्रा अग्ने दहनशक्तिवनरकादिप्रापणशक्ति मांसस्य प्रतिबध्नन्ति । तथा सति सर्वपापानि कृत्वा पापनमन्वानुस्मरणमात्रात् कृता भवेयुः । एवं च सर्वपापप्रतिषेधोऽपि निरर्थकः स्यात्, सर्वपापानां मन्त्रादेव नाशप्रसतेः । अथ यथा स्तोकं मद्यं न मदयति तथा स्वल्पं मांसं न पापाय स्यात् । उच्यते-यवाल्पमपि यवतुल्यप्रमाणमपि नाद्यात् पल मिति संबध्यते, तदपि दोषाय, अत्रोत्तरार्द्धन निदर्शनम् ॥ ३२ ॥
इदानीमनुत्तरं मांसस्य दोषमुपदर्शयन्नुपसंहरति-- सद्यः संमूर्छितानन्तजन्तुसन्तानदूषितम् ।
नरकाध्वनि पाथेयं कोऽश्नीयात्पिशितं सुधीः ? ॥३३॥ सद्यो जन्तुविशसनकाल एव संमूर्छिता उत्पन्ना अनन्ता निगोदरूपा ये जन्तवस्तेषां सन्तान: पुन: पुनर्भवनं तेन दूषितम् ।