________________
तृतीयः प्रकाशः ।
४७३
मांसं भक्षयितुमयुक्तं किं पुनर्देवादिभ्यः कल्पयितुम् । देवा हि सुकृतसम्भारलब्धात्मानोऽधातुकशरोरा अकावलिकाहाराः कथं मांसं भक्षयेयुः, अभक्षयह्नास्तत्कल्पनं मोह एव । पितरश्च स्वसुकृतदुष्कृतवशेन प्राप्तगतिविशेषाः स्वकर्मफलमनुभवन्तो न पुत्रादिक्कतेनापि सुकृतेन तार्यन्ते किं पुनमांसढौकनदुष्कृतेन । न च पुत्रादिक्कतं सुकृतं तेषामुपतिष्ठते । न ह्याम्त्रेषु सेकः कोविदारेषु फलं दत्ते । अतिथिभ्यश्च सत्कारार्हेभ्यो नरकपातहेतोमांसस्य ढौकनं महते अधर्माय । एवं परेषां महामोह वेष्टितम् । श्रुतिस्मृतिविहितत्वादनोद्यमेतदिति चेन्न । श्रुतिभाषितेष्वप्रामाणिकेषु प्रत्ययस्य कर्तुमशक्यत्वात् । श्रूयन्ते हि श्रुतिवचांसि - यथा पापघ्नो गोस्पर्शः, द्रुमाणां च पूजा ; छागादीनां वधः स्वर्ग्यः । ब्राह्मणभोजनं पितृप्रीणनं, मायावीन्यधिदैवतानि ; वह्नौ हुतं देवप्रीतिप्रदम् । तदेवंविधेषु श्रुतिभाषितेषु युक्तिकुशलाः कथं श्रद्दधीरन् ? ।
यदाह
स्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसंज्ञा द्रुमाः स्वर्गश्छांगवधाजिनोति च पितृन् विप्रोपभुक्ताशनम् । आप्ताञ्छद्मपराः सुराः शिखिहुतं प्रौणाति देवान् हविः स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् ? ॥१॥
तस्मान्महामोह एवायं मांसेन देवपूजाऽऽदिकमित्यलं विस्तरेण ॥ ननु मन्त्रसंस्कृतो वह्निनं दहति पचति वा, तन्मन्त्रसंस्कृतं मांसं न दोषाय स्यात् ।
६०