________________
४७२
योगशास्त्रे
जिसको मार्गे गच्छन्नेकया सर्पिण्या भक्षितस्तत्सर्वेऽपि भच्यन्तामनयेति बुद्धया परेभ्यो नाख्यातवानिति द्वितीयोऽपि तथैव दष्टो नान्येषां कथितवान् ; एवं यावत्सप्त दष्टाः । मांसभक्षकोऽपि मांसभक्षणात्स्वयं नरके पतन् “स्वयं नष्टा दुरात्मानो नाशयन्ति परानपि " इति न परेभ्य उपदिशति ॥ २८ ॥
इदानीं मांसभक्षकाणां मूढतामुपदर्शयति
केचिन्मांसं महामोहादश्नन्ति न परं स्वयम् । देवपिवतिथिभ्योऽपि कल्पयन्ति यदूचिरे ॥ ३० ॥
केचित् कुशास्त्रविप्रलब्धा महतो मोहान केवलं स्वयं मांसमश्रन्ति किन्तु देवेभ्यः पितृभ्योऽतिथिभ्यश्च कल्पयन्ति यद्यस्माचिरे
तद्धर्मशास्त्रकाराः ॥ ३० ॥
उक्तमेवाह
क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपहृतमेव वा । देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दुष्यति ॥३१ ॥
मृगपक्षिमांसविषयमेतच्छास्त्रं तेन सूनापणमांसं विना व्याधशाकुनिकादिभ्यः क्रीत्वा मूल्येन । सूनापणमांसे तु देवपूजादावन धिक्कृतेः । तथा स्वयमुत्पाद्य - ब्राह्मणो याज्जया, क्षत्रियो मृगयाकर्मणा, अथवा परेणोपहृतं ढौकितं तेन मांसेन देवानां, पितॄणां चार्चनं कृत्वा मांसं खादन्न दुष्यति ; एतच्च महामोहादिति वदद्भिरस्माभिर्दूषितमेव । स्वयमपि हि प्राणिघातहेतुकं