________________
योगशास्त्रे
निरुक्तबलेनापि मांसस्य परिहार्य त्वमाहमां स भक्षयिताऽमुत्र यस्य मांसमिहाद्माहम् ।
एतन्मांसस्य मांसत्वे निरुतं मनुरब्रवीत् ॥३६॥ मांस भक्षयितेति अत्र स इति सर्वनामसामान्यापेक्षं योग्येनार्थेन निराकाझीकरोति। यस्य मांसमहमद्मि, इहेति इहलोके, अमुत्रेति परलोके, एतन्मांसस्य मांसत्वे मांसरूपतायां, निरुक्तं नामधेयनिर्वचनं मनुरब्रवीत् ॥ २६ ॥
मांसभक्षणे महादोषमाहमांसास्वादनलुब्धस्य देहिनं देहिनं प्रति ।
हन्तं प्रवर्तते बुद्धिः शाकिन्या इव दुर्धियः ॥२७॥ मांसभक्षणलम्पटस्य देहिनं देहिनं प्रति यं यं पश्यति जलचरं मत्स्यादिकं, स्थलचरं मृगवराहादि अजाऽविकादि च, खेचरं तित्तिरिलावकादि, अन्ततो मूषिकाद्यपि तं तं प्रति हन्तुं हननाय बुद्धिः प्रवर्तते ; दुर्धियो दुर्बुडेः, शाकिन्या इव-यथा हि शाकिनी यं यं पुरुषं स्त्रियमन्यं वा प्राणिनं पश्यति, तं तं हन्तुं तस्या बुद्धिः प्रवर्तते, तथा मांसास्वादनलुब्धस्यापोति ॥ २७ ॥
अपि च मांसभक्षिणामुत्तमपदार्थपरिहारेण नीचपदार्थोपा. दानं महबुद्धिवैगुण्यं दर्शयतीति दर्शयन्नाह
ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्खपि । सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥ २८ ॥