________________
तृतीयः प्रकाशः । ४६८
एतदेव सजुगुप्समाहमिष्टान्नान्यपि विष्ठासादमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ? ॥२४॥ मिष्टान्नानि शालिमुहमाषगोधूमादीनि तान्यपि विष्ठासाहिष्ठावेन स्युः संपोरन्। अमृतानि पयःप्रभृतीनि तान्यपि मूत्रसान्मवत्वेन स्युः संपद्येरन् । यस्मिन् अस्य प्रत्यक्षस्य, अङ्गकस्य कुत्सितस्य शरीरस्य, कृते निमित्तं, कः सचेतन: पापं प्राणिघातलक्षणमाचरेत् विदधीत ॥ २४ ॥
इदानीं मांसभक्षणं न दोषायेति वदतो निन्दतिमांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याधरध्रवकव्याघ्रशृगालास्तैर्गुरूकृताः ॥ २५ ॥ मांसभक्षण न दोषोऽस्तौति यैरुच्यते दुरात्मभिःस्वभावः, यथा
"न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला” ॥ १ ॥ इति । सैफ्धा लुचकाः, ग्रध्रा हिंसाः पक्षिविशेषाः, वृका अरण्यखानः, व्याघ्राः शार्दूलाः, शृगाला जम्बुकाः, गुरूकता: उपदेशकाः कताः। न हि व्याधादीन् गुरून् विना कश्चिदेवंविधं शिक्षयति, नचाशिक्षितं महाजनपूज्या एवमुपदिशन्ति। अपि च । निवृत्तिस्तु महाफलेति वदद्भिर्येषां निवृत्तिमहाफला तेषां प्रवृत्तिर्न दोषवतीति स्वयमेव स्ववचनविरोध आविष्कृत इति किमन्यट् ब्रूमहे ॥ २५ ॥