SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ४६८ योगशास्त्रे निमित्तत्वात् कर्तृव्यपदेश इति समानकर्तृकत्वमविरुद्धम् । न च स्वयं इति न स्वर्गानुत्पत्तिमात्रमभिप्रेतमपि तु नरकादिदुःखहेतुता ॥ २२ ॥ इदानीमन्यपरिहारेण भक्षकस्यैव वधकत्वमाहये भक्षयन्त्यन्यपलं स्वकीयपलपष्टये । त एव घातका यन्न वधको भक्षकं विना ॥ २३ ॥ अन्यपलमन्यमांसं स्वमांसपुष्टये ये भक्षयन्ति त एव परमार्थतो घातका न तु हन्तृविक्रेटप्रभृतयः । अत्र युक्तिमाह-यद्यस्मान भक्षकं विना वधको भवति ; ततो हन्तृप्रभृतिभ्यो भक्षक: पापीयान्, स्वकीयपलपुष्टय इति हिंसाभिप्रायं स्वपलपोषणमात्रप्रयोजन: कतिपयदिनजीवितः परजीवितप्रहाणं कुर्यात् । यदाह 'हतूणं परपाण अप्पाणं जे कुणंति सप्पाणं । ' अप्पाणं दिवसाणं करण नासेंति अप्पाणं ॥ १ ॥ तथा एकस्म कए नियजीवियस्म बहुआउ जीवकोडोश्रो । दुक्खे ठवंति जे केवि ताण किं “सासयं जीयं ? ॥ १ ॥ २३ ॥ (१) हत्वा परप्राणान् आत्मानं ये कुर्वन्ति सप्राणम् । अल्पानां दिवसानां कृतेन नाशयन्ति आत्मानम ॥ (२) एकस्य कृते निजजीवितस्य बहुका जीवकोटीः । दुःखे स्थापयन्ति ये केऽपि तेषां किं शाश्वतो जीवः । * द मासो अप्पा ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy